हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sundarakanda Sarga (Chapter) 33 – सुन्दरकाण्ड त्रयस्त्रिंशः सर्गः (३३)


॥ हनूमज्जानकीसंवादोपक्रमः ॥

सोऽवतीर्य द्रुमात्तस्माद्विद्रुमप्रतिमाननः ।
विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ॥ १ ॥

तामब्रवीन्महातेजा हनूमान्मारुतात्मजः ।
शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ॥ २ ॥

का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि ।
द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ॥ ३ ॥

किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम् ।
पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ॥ ४ ॥

सुराणामसुराणां वा नागगन्धर्वरक्षसाम् ।
यक्षाणां किन्नराणां वा का त्वं भवसि शोभने ॥ ५ ॥

का त्वं भवसि रुद्राणां मरुतां वा वरानने ।
वसूनां वा वरारोहे देवता प्रतिभासि मे ॥ ६ ॥

किं नु चन्द्रमसा हीना पतिता विबुधालयात् ।
रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणान्विता ॥ ७ ॥

का त्वं भवसि कल्याणि त्वमनिन्दितलोचने ।
कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे ॥ ८ ॥

वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती ।
को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे ॥ ९ ॥

अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ।
रोदनादतिनिःश्वासाद्भूमिसंस्पर्शनादपि ॥ १० ॥

न त्वां देवीमहं मन्ये राज्ञः सञ्ज्ञावधारणात् ।
व्यञ्जनानि च ते यानि लक्षणानि च लक्षये ॥ ११ ॥

महिषी भूमिपालस्य राजकन्याऽसि मे मता ।
रावणेन जनस्थानाद्बलादपहृता यदि ॥ १२ ॥

सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ।
यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम् ॥ १३ ॥

तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ।
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता ॥ १४ ॥

उवाच वाक्यं वैदेही हनुमन्तं द्रुमाश्रितम् ।
पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः ॥ १५ ॥

स्नुषा दशरथस्याहं शत्रुसैन्यप्रमाथिनः । [प्रतापिनः]
दुहिता जनकस्याहं वैदेहस्य महात्मनः ॥ १६ ॥

सीता च नाम नाम्नाहं भार्या रामस्य धीमतः ।
समा द्वादश तत्राहं राघवस्य निवेशने ॥ १७ ॥

भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी ।
तत्र त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम् ॥ १८ ॥

अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ।
तस्मिन्सम्भ्रियमाणे तु राघवस्याभिषेचने ॥ १९ ॥

कैकेयी नाम भर्तारं देवी वचनमब्रवीत् ।
न पिबेयं न खादेयं प्रत्यहं मम भोजनम् ॥ २० ॥

एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ।
यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम ॥ २१ ॥

तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ।
स राजा सत्यवाग्देव्या वरदानमनुस्मरन् ॥ २२ ॥

मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ।
ततस्तु स्थविरो राजा सत्ये धर्मे व्यवस्थितः ॥ २३ ॥

ज्येष्ठं यशस्विनं पुत्रं रुदन्राज्यमयाचत ।
स पितुर्वचनं श्रीमानभिषेकात्परं प्रियम् ॥ २४ ॥

मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ।
दद्यान्न प्रतिगृह्णीयान्न ब्रूयत्किञ्चिदप्रियम् ॥ २५ ॥

अपि जीवितहेतोर्वा रामः सत्यपराक्रमः ।
स विहायोत्तरीयाणि महार्हाणि महायशाः ॥ २६ ॥

विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ।
साऽहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी ॥ २७ ॥

न हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते ।
प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः ॥ २८ ॥

पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलङ्कृतः ।
ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः ॥ २९ ॥

प्रविष्टाः स्म पुरादृष्टं वनं गम्भीरदर्शनम् ।
वसतो दण्डकारण्ये तस्याहममितौजसः ॥ ३० ॥

रक्षसाऽपहृता भार्या रावणेन दुरात्मना ।
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः ।
ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३ ॥


www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.